वांछित मन्त्र चुनें

श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ । रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

śreṣṭhaṁ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi | rāyo janitrīṁ dhiṣaṇām upa bruve svasty agniṁ samidhānam īmahe ||

पद पाठ

श्रेष्ठ॑म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे॑ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒ऽधाः । असि॑ । रा॒यः । जनि॑त्रीन् । धि॒षणा॑म् । उप॑ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥ १०.३५.७

ऋग्वेद » मण्डल:10» सूक्त:35» मन्त्र:7 | अष्टक:7» अध्याय:8» वर्ग:7» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सवितः) हे प्रेरक परमात्मन् ! तू (अद्य) इस जन्म में हमारे लिए (नः) श्रेष्ठ करनेवाले योग्य अध्यात्म सुखलाभ मोक्ष को प्राप्त करा (सः-हि रत्नधाः-असि) वह तू ही रमणीय धनों या सुखों का अत्यन्त धारक और देनेवाला है। (रायः जनित्रीं धिषणाम्) रमणीय धन भोग की सम्पन्न करानेवाली वाणी को (उप ब्रुवे) उपासनारूप में प्रस्तुत करता हूँ ॥७॥
भावार्थभाषाः - परमात्मा की उपासना से वह सर्वश्रेष्ठ मोक्षसुख और सांसारिक सच्चे सुख को ही प्रदान करता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सवितः) हे प्रेरयितः परमात्मन् ! त्वम् (अद्य) अस्मिन् जन्मनि (नः) अस्मभ्यम् (श्रेष्ठं वरेण्यं भागम्-आसुव) प्रशस्यतमं वर्तुमर्हमनिवार्यं वरणीयमध्यात्मलाभरूपं भागं प्रापय (सः-हि रत्नधाः-असि) स त्वं हि रमणीयानां धनानां सुखानां वाऽतिशयेन धारको दाता च भवसि (रायः-जनित्रीं घिषणाम्) रमणीयस्य धनस्य प्रादुर्भावयित्रीं वाचम् (उपब्रुवे) उपस्तौमि ॥७॥